मल्लिनाथः
केवलमिति ॥ सृजतिश्च संहृतिश्च शास्तिश्च सृजतिसंहृशास्तयः । `सृज विसर्गे` `हृञ् हरणे` संपूर्वोऽयं `शासु अनुशिष्टौ` इत्येते त्रय इत्यर्थः । `इक्श्तिपौ धातुनिर्देशे` (वा० ) इति वचनादेवं निर्देशः । धातवो `भूवादयो धातवः` (१| ३|१) इत्युक्तलक्षणाः शब्दविशेषाः। इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः । जातु कदाचित् कर्मणि प्रत्ययान्कर्मार्थे विहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासिता इत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संह्रियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः । `ष्टुञ् स्तुतौ` इति धातुः । विपरीतं कारकं यस्य स विपरीतकारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादिकर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा भङ्गयन्तरेण सर्वकर्तृकत्वसर्वोपास्यत्वादिसूक्ष्मार्थबोधपरत्वात्सौम्याख्यो गुणः । `अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते` इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृत्वकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परिसंख्या। तत्र न जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुतौ कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीतेव्य॑तिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| के | व | लं | द | ध | ति | क | र्तृ | वा | चि | नः |
| प्र | त्य | या | नि | ह | न | जा | तु | क | र्म | णि |
| धा | त | वः | सृ | ज | ति | सं | हृ | शा | स्त | यः |
| स्तौ | ति | र | त्र | वि | प | री | त | का | र | कः |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.