केवलं दधति कर्तृवाचिनः
प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः
स्तौतिरत्र विपरीतकारकः ॥

मल्लिनाथः केवलमिति ॥ सृजतिश्च संहृतिश्च शास्तिश्च सृजतिसंहृशास्तयः । `सृज विसर्गे` `हृञ् हरणे` संपूर्वोऽयं `शासु अनुशिष्टौ` इत्येते त्रय इत्यर्थः । `इक्श्तिपौ धातुनिर्देशे` (वा० ) इति वचनादेवं निर्देशः । धातवो `भूवादयो धातवः` (१| ३|१) इत्युक्तलक्षणाः शब्दविशेषाः। इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः । जातु कदाचित् कर्मणि प्रत्ययान्कर्मार्थे विहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासिता इत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संह्रियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः । `ष्टुञ् स्तुतौ` इति धातुः । विपरीतं कारकं यस्य स विपरीतकारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादिकर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा भङ्गयन्तरेण सर्वकर्तृकत्वसर्वोपास्यत्वादिसूक्ष्मार्थबोधपरत्वात्सौम्याख्यो गुणः । `अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते` इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृत्वकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परिसंख्या। तत्र न जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुतौ कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीतेव्य॑तिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
के लं ति र्तृ वा चि नः
प्र त्य या नि जा तु र्म णि
धा वः सृ ति सं हृ शा स्त यः
स्तौ ति त्र वि री का कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.