Loading data... On slow networks this could take a few minutes.
100%

आदितामजननाय देहिना-
मन्ततां च दधतेऽनपायिने ।
बिभ्रते भुवमधः सदाथ च
ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥

मल्लिनाथः आदितामिति ॥ देहिनां प्राणिनामादितां कारणताम् । अन्तोऽन्तकरो नाशहेतुः । `तत्करोति-` (ग०) इति ण्यन्तादन्तयतेः पचाद्यच् । तस्य भावस्तत्तामन्ततां च दधते । `यतो वा इमानि भूतानि जायन्ते` (तैत्ति० ३।१) इत्यादिश्रुतेः । स्वयमजननाय जन्मरहिताय । अपायोऽस्यास्तीत्यपायी स न भवतीत्यनपायी तस्मा अनपायिने नाशरहिताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह-सदाऽधः पाताले भुवं बिभ्रते कूर्मरूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याप्युपरि तिष्ठते । सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः । नमः नमस्कारः। `नमःस्वस्ति-` (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी । अत्र हरेरनादिनिधनत्वेन तद्व्रतः पुरुषान्तरादाधिक्यवर्णनाद्व्यतिरेकालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
दि ता ना दे हि ना
न्त तां ते ऽन पा यि ने
बि भ्र ते भु धः दा
ब्र ह्म णो ऽप्यु रि ति ष्ठ ते मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.