पूर्वमेष किल सृष्टवानप-
स्तासु वीर्यमनिवार्यमादधौ ।
तच्च कारणमभूद्धिरण्मयं
ब्रह्मणोऽसृजदसाविदं जगत् ॥

मल्लिनाथः पूर्वमिति ॥ एष हरिः पूर्वं प्रथममपः सृष्टवान् । किलेत्यैतिह्ये । तास्वप्सु अनिवार्यं दुर्वारं वीर्यं रेतः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः । आदधावाहितवान् , तद्वीर्यं तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । `दाण्डिनायन-` (६|४।१७४) इत्यादिना निपातः । ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्रह्माण्डं जातमित्यर्थः । असौ तदुत्पन्नो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्यायमेव मूलकारणमिति भावः । अत्र मनुः-`अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्दैमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥` (मनु०१|८,९) इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
पू र्व मे कि सृ ष्ट वा
स्ता सु वी र्य नि वा र्य मा धौ
च्च का भू द्धि ण्म यं
ब्र ह्म णो ऽसृ सा वि दं गत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.