ध्येयमेकमपथे स्थितं धियः
स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादरा-
द्दूरवर्तिनमतीव योगिनः ॥

मल्लिनाथः ध्येयमिति ॥ योगिनो नारदादयः एकमद्वितीयमुत्तमं सर्वोत्तमं यमेनं ध्येयं ध्यातव्यम् । एकार्थगोचरात्मधारणं ध्यानं तदहमित्यर्थः । तथापि धियो ज्ञानस्थापथेऽमार्गे स्थितम् । तदगोचरमित्यर्थः । `पथो विभाषा` (५|४|७२) इति समासान्तः । `अपथं नपुंसकम्` (अष्टाध्यायी २.४.३० ) इति नपुंसकत्वम् । आमनन्ति । कथयन्ति । `पाघ्रा-` (७|३।७८) इत्यादिना म्नाधातोर्मनादेशः । स्तुत्यं स्तोतुमर्हम् ।&#३२; तथापि अतीतो वाक्पथो येन तम् । अवाङ्मनसगोचरमित्यर्थः । `यतो वाचो निवर्तन्ते अप्राप्य मनसा सह` इति श्रुतेः । आमनन्ति आदरादास्थया उपास्यं सेव्यम् । तथापि अतीवात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचिन्त्यरूपमामनन्ति तमेनं मर्त्यमानं माऽवधारयेदिति पूर्वेणान्वयः । अवाङ्मनसगोचरत्वदूरवर्तित्वानां ध्येयत्वस्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ध्ये मे थे स्थि तं धि यः
स्तु त्य मु त्त ती वा क्प थम्
न्ति मु पा स्य मा रा
द्दू र्ति ती यो गि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.