मर्त्यमात्रमवदीधरद्भवा-
न्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो
वेधसः प्रतिजनं कृतस्थितेः ॥

मल्लिनाथः व्मर्त्येत्यादि ॥ आनमिताः प्रह्वीकृता दैत्या दितिसुताः, दानवा दनुसुताश्च येन तमेनं हरिं भवान्मर्त्यमानं मनुष्यमात्रं मावदीधरत् न जानीयात् । `शेषे प्रथमः` (अष्टाध्यायी १.४.१०८ ) इति प्रथमपुरुषः । कुतः । एषः कृष्णो जनतातिवर्तिनः सर्वलोकातीतस्य प्रतिजनं जने जने कृतस्थितेः कृता स्थितिः येन तस्य । सर्वभूतान्तर्यामिण इत्यर्थः । वेधसः परमात्मनोंऽशः कला । अतो न मर्त्यमात्रमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
र्त्य मा त्र दी द्भ वा
न्मै मा मि दै त्य दा वम्
अं ता ति र्ति नो
वे सः प्र ति नं कृ स्थि तेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.