Loading data... On slow networks this could take a few minutes.
100%

अत्र चैष सकलेऽपिभाति मां
प्रत्यशेषगुणबन्धुरर्हति ।
भूमिदेवनरदेवसङ्गमे
पूर्वदेवरिपुरर्हणां हरिः ॥

मल्लिनाथः अत्रेति ॥ अत्रास्मिन्कालेऽपि भूमिदेवा ब्राह्मणाः नरदेवा राजानस्तेषां संगमे । ब्राह्मणक्षत्रियसमवाय इत्यर्थः । अशेषगुणानां बन्धुः सुहृत् । सर्वगुणाढ्य इत्यर्थः । असाधारणगुणानाह-पूर्वेति । पूर्वदेवाः सुरद्विषस्तेषां रिपुर्हन्ता एष हरिः कृष्णः अर्हणां पूजामर्हति प्राप्नोतीति मामधिकृत्य भाति । मम प्रतिभातीत्यर्थः । अन्ये तु नार्हन्तीत्यपि सिद्धमिति भावः । अत्र तत्रान्येषु च प्रसक्तायां पूजायां हरावेव नियमात्परिसंख्यालंकारः । `एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा । एकत्र नियमः सा हि परिसंख्या निगद्यते` इति तल्लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्र चै ले ऽपि भा ति मां
प्र त्य शे गु न्धु र्ह ति
भू मि दे दे ङ्ग मे
पू र्व दे रि पु र्ह णां रिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.