Loading data... On slow networks this could take a few minutes.
100%

आभजन्ति गुणिनः पृथक्पृथ-
क्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमोऽथवा-
पूज्य इत्ययमपीष्यते विधिः ॥

मल्लिनाथः आभजन्तीति ॥ हे पार्थ पृथापुत्र, `तस्येदम्` (अष्टाध्यायी ४.३.१२० ) इत्यण् ।सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्यार्थलाभः । अन्यथा `स्त्रीभ्यो ढक्` (४|१|१२०) इति ढक् स्यात् । गुणिनो गुणाढ्या अमी पूर्वश्लोकद्वयोक्ताः स्नातकादयः पृथक्पृथक् प्रत्येकमकृत्रिमामकपटां सस्कृतिं सत्कारमाभजन्ति अर्हन्ति । सममेषां प्रत्येकं पूजा कार्येत्यर्थः । अथ स्वाभिमतं पक्षान्तरमाह-अथवेति । अथवा गुणवत्तमोऽतिगुणवानेक एव पूज्य इत्ययमपि विधिः शास्त्रमनुष्टानं वेष्यते। वृद्धैरिति शेषः । अत्र स्नातकादीनां पूज्यत्वे गुणो विशेषणगत्या हेतुरिति काव्यलिङ्गभेदः । तदपेक्षया गुणवत्तमत्वमेकस्यैव पूज्यत्वे तथैव हेतुरिति काव्यलिङ्गान्तरमिति सजातीयसंकरः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
न्ति गु णि नः पृ क्पृ
क्पा र्थ त्कृ ति कृ त्रि मा मी
गु त्त मो ऽथ वा
पू ज्य त्य पी ष्य ते वि धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.