शोभयन्ति परितः प्रतापिनो
मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखमुखभुवः स्वयम्भुवो
भूभुजश्च परलोकजिष्णवः ॥

मल्लिनाथः शोभयन्तीति ॥ किंच १प्रतापयितुं शीलं येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः । अन्यत्र तेजस्विनः। `स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्` इत्यमरः । `अत इनिठनौ` (अष्टाध्यायी ५.२.११५ ) इति इन्प्रत्ययः । मन्त्रशक्त्या वेदमहिम्ना, अन्यत्र विचारसामर्थ्येन विनिवारिता आपदो दैवमानुषविपत्तयो यैस्ते । वेदभेदे गुप्तवादे मन्त्रः` इत्यमरः । परलोकस्य लोकान्तरस्य, शत्रुजनस्य च जिष्णवो जयशीलाः । स्वयंभुवो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । `ब्राह्मणोऽस्य मुखमासीत्` इति श्रुतेः । भूभुजो राजानश्च । त्वन्मखं तव ऋतुं परितः शोभयन्ति परिष्कुर्वन्ति । सर्वेऽप्यागत्य वसन्तीत्यर्थः । अत्र राज्ञां ब्राह्मणानां च प्रकृतानामेव प्रतापित्वादिसाधर्म्येणौपम्यावगमात्तुल्ययोगिताभेदः । साधर्म्यं च लेषनिबन्धनमिति संकरः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
शो न्ति रि तः प्र ता पि नो
न्त्र क्ति वि नि वा रि ता दः
त्व न्म मु भु वः स्व म्भु वो
भू भु श्च लो जि ष्ण वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.