Loading data... On slow networks this could take a few minutes.
100%

आत्मनैव गुणदोषकोविदः
किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्नपृच्छसि
त्वं क्रमोऽयमिति तत्र कारणम् ॥

मल्लिनाथः आत्मनेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान्भीष्मो राजानं तावदुत्साहार्थमेकेनोपश्लोकयति । वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः । कसो विद्यास्थानस्य विदः कोविदः । गुणदोषयोः कोविदो विवेक्ता । करणीयवस्तुषु कर्तव्यार्थेष्वात्मनैव स्वयमेव । परोपदेशानपेक्षयैवेत्यर्थः । प्रकृत्यादित्वातृतीया । किं न वेत्सि । सर्वं जानासीत्यर्थः । तथापि ज्ञातापि त्वं गुरून्न पृच्छसीति न, किंतु पृच्छस्येवेति यत् । ज्ञानप्रसक्तपृच्छानिवारणाय नञ्द्वयम् । तत्र गुर्वनुयोगे अयं क्रम इति एषा सदाचारपरिपाटीत्येतदेव कारणं न त्वज्ञानमित्यर्थः । अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनापरहेतुकत्वे नियमनात्पूर्वोक्तलक्षणपरिसंख्यानम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्म नै गु दो को वि दः
किं वे त्सि णी स्तु षु
त्त था पि गु रू न्न पृ च्छ सि
त्वं क्र मो ऽय मि ति त्र का णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.