Loading data... On slow networks this could take a few minutes.
100%

इत्थमत्र विततक्रमे क्रतौ
वीक्ष्य धर्ममथ घर्मजन्मना ।
अर्घदानमनुचोदितो वचः
सभ्यमभ्यधित शन्तनोः सुतः ॥

मल्लिनाथः इत्थमिति ॥ इत्थमत्र क्रतौ विततक्रमे विस्तृतानुष्ठाने सति अथानन्तरं धर्माज्जन्म यस्य तेन धर्मजन्मना धर्मात्मजेन ।जन्माद्युत्तरपदो बहुव्रीहिर्व्यधिकरण` इति वामनः । धर्मं वीक्ष्य । धर्मशास्त्रमनुस्मृत्येत्यर्थः । अर्घदानं पूजादानमनु । सदस्यपूजामुद्दिश्येत्यर्थः । `सदस्यं सप्तदशं कौषीतकिनः समामनन्ति` इति शास्त्रात् । `मूल्ये पूजाविधावर्घः` इत्यमरः । चोदितः कस्मै देयमिदमिति पृष्टः शन्तनोः सुतो भीष्मः । सभ्यं सभायां साधु । `सभाया यः` (अष्टाध्यायी १.४.१०५ ) इति यप्रत्ययः । वचो वाक्यमभ्यधिताभिहितवान् । दधातेर्लुङि तङि `स्थाध्वोरिच्च` (अष्टाध्यायी १.२.१७ ) इति सिचः कित्वे `ह्रस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सकारलोपः । वृत्त्यनुप्रासोऽलङ्कारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्थ त्र वि क्र मे क्र तौ
वी क्ष्य र्म र्म न्म ना
र्घ दा नु चो दि तो चः
भ्य भ्य धि न्त नोः सु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.