एक एव सुसखैष सुन्वतां
शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं
भूश्चषालतुलिताङ्गुलीयकम् ॥

मल्लिनाथः एक इति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः । सुनोतेर्लटः शत्रादेशः । सुसखा सत्सहायः । `न पूजनात्` (अष्टाध्यायी ५.४.६९ ) इति समासान्तप्रतिषेधः । एषः शौरिरेक एवेत्यभिनयादिव तद्व्यञ्जकचेष्टां कृत्वेवेत्युत्प्रेक्षा । `व्यञ्जकाभिनयौ समौ` इत्यमरः । भूर्देवयजनभूमिः । चषालो यूपकटकः । `चषालो यूपकटकः` इत्यमरः । तेन तुलितं । समीकृतमित्यर्थः । तुलयतेः `तत्करोति` (ग०) इति ण्यन्तात्कर्मणि क्तः । तदङ्गुलीयकमूर्मिका यस्य तम् । अङ्गुलीयकोपमानचषालमित्यर्थः । `अङ्गुलीयकमूर्मिका` इत्यमरः । `जिह्वामूलाङ्गुलेश्छः` (अष्टाध्यायी ४.३.६२ ) इति भावे छप्रत्ययः । उच्चकैरुन्नतं यूपं पशुबन्धनदारुविशेषं रूपकं स्वरूपं यस्य तं भुजमनीनमदुन्नमितवती । नमेर्णौ चङि सन्वत्कार्थम् । अत्र सापेक्षत्वादुपमोत्प्रेक्षयोः संकरः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सु खै सु न्व तां
शौ रि रि त्य भि या दि वो च्च कैः
यू रू नी द्भु जं
भू श्च षा तु लि ता ङ्गु ली कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.