रक्षितारमिति तत्र कर्मणि
न्यस्य दुष्टदमनक्षमं हरिम् ।
अक्षतानि निरवर्तयत्तदा
दानहोमयजनानि भूपतिः ॥

मल्लिनाथः रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणि राजसूयाध्वरे दुष्टानां दमने मर्दने क्षमं समर्थ हरिं रक्षितारं विघ्नेभ्यस्त्रातारं न्यस्य निधाय अक्षतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकीयस्य द्रव्यस्य स्वत्वनिवृत्त्या परस्वत्वोत्पादनं दानम् । देवतोद्देशेनाग्नौ हविषः प्रक्षेपो होमः । हुतस्य देवतोद्देशेन वाङ्मनसाभ्यां न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमत्वस्य विशेषणगत्या हरे रक्षाधिकारहेतुन्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्षि ता मि ति त्र र्म णि
न्य स्य दु ष्ट क्ष मं रिम्
क्ष ता नि नि र्त त्त दा
दा हो ना नि भू तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.