Loading data... On slow networks this could take a few minutes.
100%

स्वादयन्रसमनेकसंस्कृत-
प्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो
नाटकैरिव बभार भोजनैः ॥

मल्लिनाथः स्वादयन्निति ॥ अनेकानि बहूनि संस्कृतानि हिङ्गुमरीचादिना कृतसंस्काराणि प्राकृतानि प्रकृतिसिद्धानि संस्कारं विना स्वादूनि चूतफलादीनि च येषु तैः । अन्यत्रानेकविचित्रसंस्कृतप्राकृतौ भाषाविशेषौ येषु तैः । अकृतः पात्राणां भाजनानाम्, अन्यत्र भूमिकानां च संकरो व्यतिकरो येषु तैः । भावशुद्धिः पदार्थानां मृष्टता, अथवा भावशुद्धिः गर्हाविरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयः तेषां शुद्धिः सजातीयविजातीयातिरस्कृतरूपकम् । `सजातीयैविजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥` इति तल्लक्षणात् । तत्सहितैर्भोजनैरभ्यवहारैर्नाटकै रूपकविशेषैरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयन्ननुभवन् जनो भोक्तृजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसंकीर्णेयमुपमा
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्वा न्र ने सं स्कृ
प्रा कृ तै कृ पा त्र ङ्क रैः
भा शु द्धि हि तै र्मु दं नो
ना कै रि भा भो नैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.