Loading data... On slow networks this could take a few minutes.
100%

नानवाप्तवसुनार्ऽथकाम्यता
नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च
प्रत्यगामि तदुपेयुषा सदः ॥

मल्लिनाथः नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । `काम्यच्च` (अष्टाध्यायी ३.१.९ ) इति काम्यच्प्रत्यये सनाद्यन्तत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपेयुषा प्राप्तवता पुरुषेणानवाप्तवसुना अलब्धधनेन न प्रत्यगामि न प्रत्यावर्ति । रोगिणोपेयुषा अचिकित्सितगदेनाशमितरोगेण । `रोगव्याधिगदामयाः` इत्यमरः । न प्रत्यगामि । अशितुं भोक्तुं इच्छता उपेयुषा अनाशुषा च अनशितेन । अभुक्तवतेत्यर्थः। `उपेयिवाननाश्वाननूचानश्च` (अष्टाध्यायी ३.२.१०९ ) इति क्वसुप्रत्ययान्तो निपातितः । न प्रत्यगामि किंतु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गमेर्भावे लुङ् । अत्रार्थिरोगिक्षुधितानां प्रकृतानामेव पूर्णकामत्वसाम्याद्गम्यौपम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । तथा च यो यत्काम आगतः स तत्सर्वमेवास्मादलभतेति व्यज्यते
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ना वा प्त सु ना र्ऽथ का म्य ता
ना चि कि त्सि दे रो गि णा
च्छ ता शि तु ना शु षा
प्र त्य गा मि दु पे यु षा दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.