सा विभूतिरनुभाव सम्पदां
भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं
वर्षमद्य मम वर्तते वशे ॥

मल्लिनाथः सेति ॥ हे ऊढगुरुभार । विश्वंभरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतं भारताख्यं वर्षम् । `वर्षोऽस्त्री भारतादौ च` इति हैमः । `लोकोऽयं भारतं वर्षम्` इत्यमरः । अद्येदानीमायतायति बहुतरकालम् । स्थितं यथा तथेत्यर्थः । `उत्तरः काल आयतिः` इत्यमरः । मम वशे आयत्ततायां वर्तत इति यावत् । `वश आयत्ततायां च` इति विश्वः । सा तद्वशवर्तनम् । विधेयप्राधान्यात्स्त्रीलिङ्गता । तवानुभावसंपदां सामर्थ्यातिशयानां भूयसी महती विभूतिर्महिमा । कार्यमिति यावत् । त्वत्प्रसादलब्धमिदमैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसंपदं विना संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सा वि भू ति नु भा म्प दां
भू सी दा ता ति
दू गु रु भा भा तं
र्ष द्य र्त ते शे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.