बह्वपि प्रियमयं तव ब्रुव-
न्न व्रजत्यनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते
सार्व सर्वगुणसम्पदस्त्वयि ॥

मल्लिनाथः बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते । बह्वपि तव प्रियं ब्रुवन् सन् अनृतवादितां मिथ्यावादित्वं न व्रजति न गच्छति । यद्यस्मात् हे सार्व, सर्वहितत्वात्सार्वः तत्संबोधने । `सर्वपुरुषाभ्यां णढञौ` (अष्टाध्यायी ५.१.१० ) इति णप्रत्ययः। दोषदूषितो न भवतीत्यदोषदूषिते सर्वागुणवर्जिते त्वयि सर्वगुणसंपदः संभवन्ति । अनारोपितगुणवादो भूयानपि न विपर्येतीति भावः । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ह्व पि प्रि यं ब्रु
न्न व्र त्य नृ वा दि तां नः
म्भ न्ति दो दू षि ते
सा र्व र्व गु म्प स्त्व यि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.