निर्गुणोऽपि विमुखो न भूपते-
र्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नते-
रम्बुदस्य परिहार्यमूषरम् ॥
निर्गुणोऽपि विमुखो न भूपते-
र्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नते-
रम्बुदस्य परिहार्यमूषरम् ॥
र्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नते-
रम्बुदस्य परिहार्यमूषरम् ॥
मल्लिनाथः
निर्गुण इति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । `स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । मत्ते शौण्डोत्कटक्षीबाः` इत्यमरः । भूपतेः पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत् , किंतु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तेरित्याशयेन दृष्टान्तमाह-वर्षुकस्येति । अपो जलानि । `न लोक-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । वर्षुकस्य वर्षणशीलस्व । `लषपत-` (अष्टाध्यायी ३.२.१५४ ) इत्यादिना उकञ्प्रत्यये लघूपधगुणः । कृतोन्नतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । `कृत्यानां कर्तरि वा` (अष्टाध्यायी २.३.७१ ) इति षष्ठी । `स्यादूषः क्षारमृत्तिका` इत्यमरः । तद्वत्क्षेत्रमूषरम् । `उषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली` इत्यमरः । `ऊषसुषिमुष्कमधो रः` (अष्टाध्यायी ५.२.१०७ ) इति रप्रत्ययः । परिहार्यं त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बतया समानधर्माभिधानादृष्टान्तालंकारः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| नि | र्गु | णो | ऽपि | वि | मु | खो | न | भू | प | ते |
| र्दा | न | शौ | ण्ड | म | न | सः | पु | रो | ऽभ | वत् |
| व | र्षु | क | स्य | कि | म | पः | कृ | तो | न्न | ते |
| र | म्बु | द | स्य | प | रि | हा | र्य | मू | ष | रम् |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.