प्रेम तस्य न गुणेषु नाधिकं
न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं
गुण्यगुण्य इति न व्यजीगणत् ॥
प्रेम तस्य न गुणेषु नाधिकं
न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं
गुण्यगुण्य इति न व्यजीगणत् ॥
न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं
गुण्यगुण्य इति न व्यजीगणत् ॥
मल्लिनाथः
प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । स राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूतार्थे लट् `विदो लटो वा` (अष्टाध्यायी ३.४.८३ ) इति णलादेशः । `संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ` इति वामनः । संभावितयोरविमर्शादेवागुणप्रीतिज्ञानयोर्निषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । `सर्वभूमिपृथिवीभ्यामणञौ` (अष्टाध्यायी ५.१.४१ ) इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया। सर्वपात्रदानकौतुकेनेत्यर्थः । `सनि मीमा-` (अष्टाध्यायी ७.४.५४ ) इत्यादिना इसादेशः । `अत्र लोपोऽभ्यासस्य` (अष्टाध्यायी ७.४.५८ ) इत्यभ्यासलोपः । अर्थिनं याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेर्णौ चङि `ई च गणः` (अष्टाध्यायी ७.४.९७ ) इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञत्वरूपकारणसामग्र्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ता विशेषोक्तिरलंकारः। `तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यत` इति लक्षणात्
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| प्रे | म | त | स्य | न | गु | णे | षु | ना | धि | कं |
| न | स्म | वे | द | न | गु | णा | न्त | रं | च | सः |
| दि | त्स | या | त | द | पि | पा | र्थि | वो | ऽर्थि | नं |
| गु | ण्य | गु | ण्य | इ | ति | न | व्य | जी | ग | णत् |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.