Loading data... On slow networks this could take a few minutes.
100%

प्रेम तस्य न गुणेषु नाधिकं
न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं
गुण्यगुण्य इति न व्यजीगणत् ॥

मल्लिनाथः प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । स राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूतार्थे लट् `विदो लटो वा` (अष्टाध्यायी ३.४.८३ ) इति णलादेशः । `संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ` इति वामनः । संभावितयोरविमर्शादेवागुणप्रीतिज्ञानयोर्निषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । `सर्वभूमिपृथिवीभ्यामणञौ` (अष्टाध्यायी ५.१.४१ ) इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया। सर्वपात्रदानकौतुकेनेत्यर्थः । `सनि मीमा-` (अष्टाध्यायी ७.४.५४ ) इत्यादिना इसादेशः । `अत्र लोपोऽभ्यासस्य` (अष्टाध्यायी ७.४.५८ ) इत्यभ्यासलोपः । अर्थिनं याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेर्णौ चङि `ई च गणः` (अष्टाध्यायी ७.४.९७ ) इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञत्वरूपकारणसामग्र्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ता विशेषोक्तिरलंकारः। `तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यत` इति लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
प्रे स्य गु णे षु ना धि कं
स्म वे गु णा न्त रं सः
दि त्स या पि पा र्थि वो ऽर्थि नं
गु ण्य गु ण्य ति व्य जी णत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.