नैक्षतार्थिनमवज्ञया मुहु-
र्याचितस्तु न च कालमाक्षिपत् ।
नादिताल्पमथ न व्यकत्थय-
द्दत्तमिष्टमपि नान्वशेत सः ॥

मल्लिनाथः नैक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञया अनादरेण नैक्षत । तर्हि विलम्बितं किं, नेत्याह-याचितस्तु प्रार्थित एव कालं नाक्षिपन्न यापयामास । याचकबहुत्वात् । तर्ह्यल्पदाता नेत्याह-अल्पमपि नादित न ददौ । किंतु यथार्थिकाममिति भावः । ददातेर्लुङि तङि `स्थाघ्वोरिच्च` (अष्टाध्यायी १.२.१७ ) इतीकारः `ह्रस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सलोपः । तर्हि विकत्थनः किं, नेत्याह-न व्यकत्थयदात्मश्लाघां न चकार । `कत्थ श्लाघायाम्` । किंच इष्टं प्रियमपि दत्तं वस्तु नान्वशेत नानुतप्तवान् । दत्तानुतापस्यातिप्रत्यवायहेतुत्वादिति भावः । अत्रार्थिसंदोहयाञ्चादिबाहुल्यरूपकारणसामग्र्येऽपि विलम्बादिकार्यानुत्पत्तेर्विशेषोक्तिरलंकारः । `तत्सामग्र्यादनुत्पत्तिर्विशेषोक्तिर्निगद्यते` इति लक्षणात् । तथा दातुः सात्विकत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
नै क्ष ता र्थि ज्ञ या मु हु
र्या चि स्तु का मा क्षि पत्
ना दि ता ल्प व्य त्थ
द्द त्त मि ष्ट पि ना न्व शे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.