मल्लिनाथः
आगतादिति ॥ सत्त्वसंपदा सत्त्वगुणाधिक्येन अविकारिमानसः। लोभाभिभवाभ्यामनुपप्लुतचित्त इत्यर्थः । `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः` इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताज्जुह्वत्यस्मिन्नित्याहवो यागः । `ऋदोरप्` (अष्टाध्यायी ३.३.५७ ) इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । `आङि युद्धे` इति ह्वयतेराङ्पूर्वादप्प्रत्ययः संप्रसारणम् । `आहवो यागयुद्धयोः` इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शेत्रोर्मृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मणि कर्तरि क्तः । `प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया` इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अर्थिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययो राक्षसवत् । तस्मादिव पराङ्मुखो नाभवत् । `आहवेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥` (मनु० ७।८८) इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| आ | ग | ता | द्व्य | व | सि | ते | न | चे | त | सा |
| स | त्त्व | स | म्प | द | वि | का | रि | मा | न | सः |
| त | त्र | ना | भ | व | द | सौ | म | हा | ह | वे |
| शा | त्र | वा | दि | व | प | रा | ङ्मु | खो | ऽर्थि | नः |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.