Loading data... On slow networks this could take a few minutes.
100%

आगताद्व्यवसितेन चेतसा
सत्त्वसम्पदविकारिमानसः ।
तत्र नाभवदसौ महाहवे
शात्रवादिव पराङ्मुखोऽर्थिनः ॥

मल्लिनाथः आगतादिति ॥ सत्त्वसंपदा सत्त्वगुणाधिक्येन अविकारिमानसः। लोभाभिभवाभ्यामनुपप्लुतचित्त इत्यर्थः । `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः` इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताज्जुह्वत्यस्मिन्नित्याहवो यागः । `ऋदोरप्` (अष्टाध्यायी ३.३.५७ ) इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । `आङि युद्धे` इति ह्वयतेराङ्पूर्वादप्प्रत्ययः संप्रसारणम् । `आहवो यागयुद्धयोः` इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शेत्रोर्मृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मणि कर्तरि क्तः । `प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया` इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अर्थिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययो राक्षसवत् । तस्मादिव पराङ्मुखो नाभवत् । `आहवेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥` (मनु० ७।८८) इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ता द्व्य सि ते चे सा
त्त्व म्प वि का रि मा सः
त्र ना सौ हा वे
शा त्र वा दि रा ङ्मु खो ऽर्थि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.