Loading data... On slow networks this could take a few minutes.
100%

आद्यकोलतुलितां प्रकम्पनैः
कम्पितां मुहुरनीदृगात्मनि ।
वाचिरोपितवतामुना महीं
राजकाय विषया विभेजिरे ॥

मल्लिनाथः आद्येति ॥ आद्यकोल आदिवराहः । `वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः` इत्यमरः । तेन तुलितां कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैर्हिरण्याक्षप्रमुखैः कम्पितां क्षोभितां महीम् । अनीदृगात्मन्यनेवंरूपायां केनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरेण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राज्ञा राजकाय राज्ञां समूहाय । `गोत्रोक्ष-` (अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ्प्रत्ययः । विषया देशाः । `नीवृज्जनपदो देशविषयौ तूपवर्तनम्` इत्यमरः । विभेजिरे अस्यायमिति विभक्ताः । प्राक् दिग्विजयोद्धृतान् राज्ञः पुनः पदेषु स्थापयामासेत्यर्थः । अत्रादिवराहो महीमुद्धृतवानेव वाचैवासौ तु निरातङ्कं स्थापितवांश्चेत्युपमानादुपमेयस्याधिक्यकथनाद्व्यतिरेकालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
द्य को तु लि तां प्र म्प नैः
म्पि तां मु हु नी दृ गा त्म नि
वा चि रो पि ता मु ना हीं
रा का वि या वि भे जि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.