यं लघुन्यपि लघूकृताहितः
शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपोऽपरै-
र्गौरवेण ददृशेतरामसौ ॥

मल्लिनाथः यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः । स राजा शिष्येण तुल्यं शिष्यभूतम् । `भूतं क्षमादौ पिशाचादौ न्याय्ये सत्योपमानयोः` इति विश्वः। सुप्सुपेति नित्यसमासः । यं नृपं लघुन्यप्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । `सर्तिशास्त्यर्तिभ्यश्च` (३।१॥५६) इति लुङि च्लेरङादेशः `शास इदङ्हलोः` (अष्टाध्यायी ६.४.३४ ) इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्यैनृपतिभिः सस्पृहं अहो संमान इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः । दृशेः कर्मणि लिट् `तिङश्च` (अष्टाध्यायी ५.३.५६ ) इति तरपूप्रत्यये किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे` (अष्टाध्यायी ५.४.११ ) इत्यामुप्रत्ययः । `तद्धितश्चासर्वविभक्तिः` (अष्टाध्यायी १.१.३८ ) इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
यं घु न्य पि घू कृ ता हि तः
शि ष्य भू शि त्स र्म णि
स्पृ हं नृ ति भि र्नृ पो ऽप रै
र्गौ वे दृ शे रा सौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.