प्रीतिरस्य ददतोऽभवत्तथा
येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं
नाधिवेश्म निहितैरुपायनैः ॥

मल्लिनाथः प्रीतिरिति ॥ ददतो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामर्थिसात्करणेनैव प्रीतिरभवदासीत् । न तु कोशगृहार्पणेनेत्यर्थः । कुतः । येन प्रकारेण तस्य राज्ञः प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः । मधुपिपासुप्रभृतित्वाद्द्वितीयासमासः । नृपाः स्पर्शितैः प्रतिपादितैः । `स्पर्शनं प्रतिपादनम्` इत्यमरः । उपायनैरुपहारैरधिकं यथा तथा मुदमागमन् प्राप्ताः । तथैव प्रभुप्रीतिसिद्धेः स्वोपायनानां सिद्धिनियोगलाभाच्चेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनैर्मुदं नागमन् । तथोक्तप्रयोजनासिद्धेरिति भावः । येनैव राज्ञां मोदः स्वस्य च महान्धर्मलाभः तेनोपायनानामर्थिसात्करणादेव राज्ञः प्रीतिरासीत् , न कोशगृहार्पणादित्यर्थः । अत एव दानसंग्रहयोः प्रकृतयोः प्रीतेः संग्रहपरिहारेण दान एव नियमनात्परिसंख्यालंकारः । `एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्ये` ति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
प्री ति स्य तो ऽभ त्त था
ये त्प्रि चि की र्ष वो नृ पाः
स्प र्शि तै धि मा न्मु दं
ना धि वे श्म नि हि तै रु पा नैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.