Loading data... On slow networks this could take a few minutes.
100%

एक एव वसु यद्ददौ नृप-
स्तत्समापकमतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः
सर्वपार्थिवधनान्यपि क्षयम् ॥

मल्लिनाथः एक इति ॥ एक एव नृपो यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं संपूरकमतर्क्यत । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्रे त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रैकपार्थिवधनस्य क्रतुसमापकत्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसंकरः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सु द्द दौ नृ
स्त त्स मा र्क्य क्र तोः
त्या शा लि नि पः सु ते युः
र्व पा र्थि ना न्य पि क्ष यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.