मृग्यमाणमपि यद्दुरासदं
भूरिसारमुपनीय तत्स्वयम् ।
आसतावसरकाङ्क्षिणो बहि-
स्तस्य रत्नमुपदीकृतं नृपाः ॥

मल्लिनाथः मृग्यमाणमिति ॥ यद्रत्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृतमुपायनीकृतम् । मनसा यथासंकल्पितमित्यर्थः ।`उपायनमुपग्राह्यमुपहारस्तथोपदा` इत्यमरः । तद्रत्नं श्रेष्ठवस्तु । `रत्नं श्रेष्ठे मणावपि` इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाङ्क्षिणः सेवावसरं प्रतीक्षमाणा बहिरासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारोप्यमाणस्य प्रकृतोपयोगात्परिणामालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
मृ ग्य मा पि द्दु रा दं
भू रि सा मु नी त्स्व यम्
ता का ङ्क्षि णो हि
स्त स्य त्न मु दी कृ तं नृ पाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.