तोषमेति वितथैः स्तवैः पर-
स्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव
स्तोत्रयोग्यन च तेन तुष्यसि ॥
तोषमेति वितथैः स्तवैः पर-
स्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव
स्तोत्रयोग्यन च तेन तुष्यसि ॥
स्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव
स्तोत्रयोग्यन च तेन तुष्यसि ॥
मल्लिनाथः
तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूतैः स्तवैः स्तोत्रैः । `स्तवः स्तोत्रं नुतिः स्तुतिः` इत्यमरः । तोषमुत्सुकतामेति । ते च तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असंबद्धप्रलापानामनिरर्गलत्वादिति भावः । त्वयि तु नैवमित्याह-अस्तीति । हे स्तोत्रयोग्य । गुणाकरत्वादिति भावः । अत एव तव संबन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचसा न च तुष्यसि न प्रसीदसि । गम्भीरत्वादिति भावः । अत्र श्लोकद्वये पुरुषान्तरादुपमानभूतादाधिक्यकथनाद्यतिरेकालंकारः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| तो | ष | मे | ति | वि | त | थैः | स्त | वैः | प | र |
| स्ते | च | त | स्य | सु | ल | भाः | श | री | रि | भिः |
| अ | स्ति | न | स्तु | ति | व | चो | ऽनृ | तं | त | व |
| स्तो | त्र | यो | ग्य | न | च | ते | न | तु | ष्य | सि |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.