तत्प्रणीतमनसामुपेयुषां
द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः
कर्तुमाश्रमगुरुः स नाश्रमत् ॥

मल्लिनाथः तदिति ॥ अनिवारिता अप्रत्याख्याता अतिथयो येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुर्नियन्ता स राजा । आ समन्ताज्जुह्वत्यस्मिन्नित्याहवनं यागम् । जुहोतेर्ल्युट् । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसां सत्कर्मदर्शनाद्धृष्टचित्तानामग्रजन्मनाम् द्विजानाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् । `पथ्यतिथि-` (अष्टाध्यायी १.४.१०४ ) इत्यादिना ढञ्प्रत्ययः । कर्तुं नाश्रमन्न श्रान्तः । श्राम्यतेः पुषादित्वाल्लुङि च्लेरङादेशः । अत्रानिवारितातिथित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वात्काव्यलिङ्गं तदनुप्रासेन संसृज्यते
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्प्र णी सा मु पे यु षां
द्र ष्टु मा ग्र न्म नाम्
ति थे नि वा रि ता ति थिः
र्तु मा श्र गु रुः ना श्र मत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.