शुद्धमश्रुतिविरोधि बिभ्रतं
शास्त्रमुज्ज्वलवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहु-
र्वाच्यमानमशृणोद्द्विजन्मनाम् ॥

मल्लिनाथः शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूतम् । अन्यत्र विभक्तिविपरिणामेन शुद्धैरकङ्कैः । श्रुतिविरोधि वेदविरुद्धं न भवतीत्यश्रुतिविरोधि शास्त्रं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशास्त्राभिज्ञमित्यर्थः । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः । वाच्यमानमन्वयगुणादिक्रमेण प्रस्तूयमानम् , अन्यत्र वाच्यमानैर्द्विजगणेन व्याख्यायमानैरित्यर्थः । वचेश्चौरादिकात्कर्मणि लटः शानजादेशः । द्विजन्मनां ब्राह्मणानां गणं अवर्णसंकरैरसंकीर्णाक्षरैः, अन्यत्र जातिसंकररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षरैर्वाक्यैः सह अशृणोत् । दानकाले प्रत्येकं ब्राह्मणानां गुणान् गोष्टीश्च श्रुतवानित्यर्थः । मुखस्थविद्यानामपि पुस्तकधारणं विलक्षणत्वेनोक्तमित्यदोषः। अन्यत्र पुस्तकैः समं द्विजगणमशृणोदिति संबन्धिभेदभिन्नयोः श्रवणयोरभेदाध्यवसायभेदेऽभेदरूपातिशयोक्तिचमत्कारिणी द्विजानां प्रकृतत्वात् पुस्तकानीव द्विजानिति वैवक्षिकोपमानोपमेयभावपर्यवसायिनी श्लेषसंकीर्णसहोक्तिरलंकारः । `सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते` इति लक्षणात् । केचित्पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायतमानानिति व्याचक्षते । तैः पुस्तकेषु शास्त्रभरणासंभवादवर्णसंकरेति श्लिष्टविशेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां च वाचनकरणत्वात्समादिशब्दवैयर्थ्यमुक्तसहोक्त्यलंकारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
शु द्ध श्रु ति वि रो धि बि भ्र तं
शा स्त्र मु ज्ज्व र्ण ङ्क रैः
पु स्त कैः सौ णं मु हु
र्वा च्य मा शृ णो द्द्वि न्म नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.