Loading data... On slow networks this could take a few minutes.
100%

स स्वहस्तकृतचिह्नशासनः
पाकशासनसमानशासनः ।
आशशाङ्कतपनार्णवस्थितो-
र्विप्रसादकृत भूयसीर्भुवः ॥

मल्लिनाथः स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशासनः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः । स राजा स्वहस्तेन कृतं लिखितं चिह्न स्वनामलेखनादिलाञ्छनं येषु तानि शासनानि नियमपत्राणि यस्य सः। दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । आ शशाङ्कतपनार्णवस्थितेः शशाङ्कतपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावाङ् । `आङ्रमर्यादाभिविध्योः` (अष्टाध्यायी २.१.१३ ) इति विकल्पादसमासः । भूयसीर्भुवो देयभूमीः विप्रसाद्विप्राधीनाः । `देये त्रा च` (अष्टाध्यायी ५.४.५५ ) इति चकारत्सातिप्रत्ययः । अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुङि तङ् `उश्च` (अष्टाध्यायी १.२.१२ ) इति सिचः कित्त्वात् `ह्र्स्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सकारलोपो गुणाभावश्च । पाकशासनसमानशासन इत्युपमानुप्रासयोः संसृष्टिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्व स्त कृ चि ह्न शा नः
पा शा मा शा नः
शा ङ्क ना र्ण स्थि तो
र्वि प्र सा कृ भू सी र्भु वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.