किं नु चित्रमधिवेदि भूपति-
र्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः
प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥
किं नु चित्रमधिवेदि भूपति-
र्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः
प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥
र्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः
प्राप्य तेऽपि विमलं प्रतिग्रहम् ॥
मल्लिनाथः
किमिति ॥ भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्ययीभावः । द्विजगणानृत्विग्गणान् दक्षयन्हर्षयन् दक्षिणाप्रतिग्रहेण सदक्षिणान्कुर्वन् । प्रतिग्राहयन्नित्यर्थः । तत्क्षणे दक्षिणां प्रतिगृह्येति श्रुतिदर्शनात् । `दक्ष नैपुण्ये` इति धातोर्ण्यन्ताल्लठः शत्रादेशः । अत एव `निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च` इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ् । किं चित्रं दाता पूत इति । न चित्रमित्यर्थः। किंतु प्रतिग्रहीतापि पूत इति चित्रमाह । ते द्विजगणा अपि निरेनसो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तसिल् । विमलं शुद्धं प्रतिग्रहं प्राप्य पुपुविरे पूता बभूवुः । `विशुद्धाच्च प्रतिग्रहः` इत्यभिधानादिति भावः । अत्रापि पूञः कर्मकर्तरि लिट् । प्रतिग्रहीतापि शुद्ध इति विरोधः। स एव वाक्यार्थभूतश्चित्रत्वनिषेधहेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| किं | नु | चि | त्र | म | धि | वे | दि | भू | प | ति |
| र्द | क्ष | य | न्द्वि | ज | ग | णा | न | पू | य | त |
| रा | ज | तः | पु | पु | वि | रे | नि | रे | न | सः |
| प्रा | प्य | ते | ऽपि | वि | म | लं | प्र | ति | ग्र | हम् |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.