Loading data... On slow networks this could take a few minutes.
100%

दक्षिणीयमवगम्य पङ्क्तिशः
पङ्क्तिपावनमथ द्विजव्रजम् ।
दक्षिणः क्षितिपतिर्व्यशिश्रण-
द्दक्षिणाः सदसि राजसूयकीः ॥

मल्लिनाथः दक्षिणीयमिति ॥ अथानन्तरं दक्षिण औदार्यवान् । `दक्षिणे सरलोदारौ` इत्यमरः । क्षितिपती राजा । दक्षिणामर्हतीति दक्षिणीयो दक्षिणार्हः । `दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि` इत्यमरः । `कडङ्करदक्षिणाच्छ च` (अष्टाध्यायी ५.१.६९ ) इति छप्रत्ययः । तं पङ्क्तेः स्वाधिष्ठितायाः पावनं पावयितारं पङ्क्तिपावनम् । पावयतेः कर्तरि ल्युट् । द्विजव्रजं ऋत्विग्वर्गमित्यर्थः । पङ्क्तिशः पङ्क्त्यनुसारेणाधिगम्य प्राप्य सदसि राजसूयकीः । राजसूयकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूयकीति दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विश्राणयति स्म । वितीर्णवानित्यर्थः । `विश्राणनं वितरणम्` इत्यमरः । `श्रण दाने` इति धातोः `णै चङ्युपधाया ह्रस्वः` (अष्टाध्यायी ७.४.१ ) । वृत्त्यनुप्रासोऽलंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्षि णी म्य ङ्क्ति शः
ङ्क्ति पा द्वि व्र जम्
क्षि णः क्षि ति ति र्व्य शि श्र
द्द क्षि णाः सि रा सू कीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.