नापचारमगमन्क्कच्चित्क्रियाः
सर्वमत्र समपादि साधनम् ।
अत्यशेरत परस्परं धियः
सत्त्रिणां नरपतेश्चसंपदः ॥

मल्लिनाथः नापचारमिति ॥ अत्र क्रतौ क्वचित् कुत्रापि क्रियाः कर्माण्यपचारं लोपविषयविपर्यासादिदोषं नागमन् । गमेर्लुङि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । अनपचारे हेतुमाह-अत्र सर्वं साधनंं समपादि संपन्नम् । पद्यतेः कर्तरि लुङ् `चिण् ते पदः` (अष्टाध्यायी ३.१.६० ) इति चिण् प्रत्ययः कर्मणि वा । संपादितमित्यर्थः । `चिण् भावकर्मणोः` (अष्टाध्यायी ३.१.६६ ) इति चिण्प्रत्ययः । साधनसंपत्तिमेव व्यनक्ति-अतीति । सत्त्रं यज्ञतन्त्रं येषामस्तीति सत्त्रिणामृत्विजाम् । `सत्त्रमाच्छादने यज्ञे` इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-`आचतुर्थात्कर्मणोऽन्ते समीक्षेतेदं करिष्यामि` इति । तथा नरपते राज्ञः संपदः पदार्थसमृद्धयश्च परस्परमत्यशेरतातिशयितवत्यः। उभयेऽप्यतिसमग्रा इत्यर्थः । ज्ञानद्रव्ये हि क्रियासाधने तत्संपन्नस्य कुतः क्रियापचार इति भावः । अत्रानपचारवाक्यार्थस्य साधनसंपत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तस्य परस्परातिशयक्रियारूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसंपद्गोचरया तुल्ययोगितयोज्जीवितेत्यनयोरङ्गाङ्गिभावेन संकरः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ना चा न्क्क च्चि त्क्रि याः
र्व त्र पा दि सा नम्
त्य शे स्प रं धि यः
त्त्रि णां ते श्च सं दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.