Loading data... On slow networks this could take a few minutes.
100%

प्राशुराशु हवनीयमत्र
यत्तेन दीर्घममरत्वमध्यग्- ।
उः उद्धतानधिक मेधितौजसो
दानवांश्च विबुधाः विजिग्यिरे ॥

मल्लिनाथः प्राशुरिति ॥ विबुधाः सुरा अत्र क्रतौ आशु क्षिप्रं हूयत इति हवनीयं हविर्यत्प्राशुः प्राशितवन्तः । `अश भोजने` लिट् द्विर्वचनादिकार्ये `अत आदेः`&#३२; (अष्टाध्यायी ७.४.७० ) इत्यभ्यासदीर्घः । तेन हविःप्राशनेन दीर्घं चिरभोग्यममरत्वं देवत्वमध्यगुः प्रापुः । `इणो गा लुङि` (अष्टाध्यायी २.४.४५ ) इति गादेशः । किंच अधिकमत्यन्तमेधितौजसो वर्धितबलाः सन्तः उद्धतानुदृप्तान् दानवान् , असुरांश्च विजिग्यिरे जितवन्तः । विपूर्वाज्जयतेः कर्तरि लिट् । `विपराभ्यां जेः` (अष्टाध्यायी १.३.१९ ) इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वात्काव्यलिङ्गं तदुत्थापितश्चामरत्वासुरविजयक्रियासमुच्चय इति संकरः । गुणक्रियायौगपद्यं समुच्चयः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
प्रा शु रा शु नी त्र
त्ते दी र्घ त्व ध्य गुः
द्ध ता धि मे धि तौ सो
दा वां श्च वि बु धाः वि जि ग्यि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.