Loading data... On slow networks this could take a few minutes.
100%

तत्र नित्यविहितोपहूतिषु
प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयोऽभव-
न्न प्रफुल्लसुरपादपस्रजः ॥

मल्लिनाथः तत्रेति ॥ तत्र क्रतौ नित्यं विहितोपहूतिषु कृताह्वानेषु पतिषु भर्तृषु इन्द्रादिषु प्रोषितेषु प्रवासं गतेषु । वसेः कर्तरि क्तः `वसतिक्षुधोः-` (अष्टाध्यायी ७.२.५२ ) इतीडागमः । द्युयोषितां स्वर्गस्त्रीणामिन्द्राण्यादीनां शिरसि वेणयो जटा एव गुम्फिता ग्रथिता अभवन् । प्रफुल्ला विकसिताः सुरपादपस्रजो मन्दारमाला न गुम्फिता अभवन् । अत्र सुरयोषितां वेण्यसंबन्धेऽपि संबन्धोक्तेः स्रक्संबन्धेऽप्यसंबन्धोक्तेश्च संबन्धेऽसंबन्धरूपा असंबन्धे संबन्धरूपा चातिशयोक्तिः । ताभ्यां च क्रतोरजस्रत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्र नि त्य वि हि तो हू ति षु
प्रो षि ते षु ति षु द्यु यो षि ताम्
गु म्फि ताः शि सि वे यो ऽभ
न्न प्र फु ल्ल सु पा स्र जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.