निर्जिताखिलमहार्णवौषधि-
स्यन्दसारममृतं ववल्गिरे ।
नाकिनः कथमपि प्रतीक्षितुं
हूयमानमनले विषेहिरे ॥

मल्लिनाथः निर्जितेति ॥ नाकः स्वर्ग एषामस्तीति नाकिनो देवाः अखिलानां महार्णवौषधीनां महार्णवमन्थनसमये उत्थितानां दिव्यौषधिलतानां स्यन्दो मन्थनान्निःसृतो रसः तस्य सारो मृष्टांशः। अमृतमिति यावत् । स निर्जितो येन तत् । अमृतादपि स्वाद्वित्यर्थः । अमृतं हविराख्यातम् । `अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते` इति मेदिनी । ववल्गिरेऽभ्यवजह्नुः । `वल्ग भोजने` कर्तरि लिट् । `वल्गंं चाभ्यवहारं प्रत्यवसानं च जेमनं जग्धिः` इति हलायुधः । तस्यामृताधिक्यं व्यनक्ति । अनले हूयमानं दीयमानममृतमिति भावः । प्रतीक्षितुं कथमपि विषेहिरे सोढवन्तः । होमविलम्बं कथंचिदसहन्तेत्यर्थः । तृष्णा तु प्रागेव जिघ्रतीति रसातिशयोक्तिः । अत्र हविषोऽमृतमित्यभेदोक्त्या भेदरूपातिशयोक्तिस्तद्विशेषणपदार्थस्य वल्गनहेतुत्वात्काव्यलिङ्गभेदस्तया संकीर्यते । परिनिविभ्यः सेवसितसयसिवुसह-` (अष्टाध्यायी ८.३.७० ) इत्यादिना सहेः षत्वम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
नि र्जि ता खि हा र्ण वौ धि
स्य न्द सा मृ तं ल्गि रे
ना कि नः पि प्र ती क्षि तुं
हू मा ले वि षे हि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.