लज्जते न गदितः प्रियं परो
वक्तुरेव भवति त्रपाधिका ।
व्रीडमेतिन तव प्रियं वद-
न्ह्रीमतात्रभवतैव भूयते ॥

मल्लिनाथः लजत इत्यादिभिः ॥ परोऽन्यः कश्चित्पुमान्प्रियं गदितः । प्रियवाक्यमुक्तः सन्नित्यर्थः । गदेर्दुहादित्वादप्रधाने कर्मणि क्तः । `अप्रधाने दुहादीनाम्` इति वचनात् । न लज्जते । तस्योत्सुकत्वादिति भावः । किंतु वक्तुः स्तोतुरेवाधिका त्रपा भवति । भयादिना मिथ्यास्तावकत्वादिति भावः । प्रकृते तु नैवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । व्रीडं नैति । अनन्तगुणाधारे त्वयि बहोरपि प्रियस्या मिथ्यात्वादिति भावः । किंतु स्तवनेनात्रभवता पूज्येनैव हीमता त्रपावता भूयते प्रत्युत त्वमेवात्र जिहेषीत्यर्थः । महतामनुत्सुकत्वादिति भावः । `पूज्यस्तत्रभवान्` इति सज्जनः । `इतराभ्योऽपि-` (अष्टाध्यायी ५.३.१४ ) इति सार्वविभक्तिके तसिल्प्रत्यये `सुप्सुपा` इति समासः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ज्ज ते दि तः प्रि यं रो
क्तु रे ति त्र पा धि का
व्री मे ति प्रि यं
न्ह्री ता त्र तै भू ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.