Loading data... On slow networks this could take a few minutes.
100%

उन्नमन्सपदि धूम्रयन्दिशः
सान्द्रतां दधदधःकृताम्बुदः ।
द्यामियाय दहनस्य केतनः
कीर्तयन्निव दिवौकसां प्रियम् ॥

मल्लिनाथः &#३२; उन्नमन्निति ॥ सपदि होमक्षण एवोन्नमन्नुद्गच्छन् दिशो धूम्रयन् धूम्रवर्णाः कुर्वन् सान्द्रतां नीरन्ध्रतां दधत् अत एवाधःकृताम्बुदः शोभयावधीरितमेघो मेघोपरि गतश्च दहनस्याग्नेः केतनः केतुः । धूम इत्यर्थः । द्यौरोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । अथवा दिवमोको येषामिति विग्रहः । `दिवं स्वर्गान्तरिक्षयोः` इति विश्वः । तेषां प्रियमिष्टं कीर्तयन् कथयन्निव कीर्तनहेतोरिव । कीर्तनार्थमिवेत्यर्थः । अत एव फलोत्प्रेक्षा । कीर्तयन्निति `लक्षणहेत्वोः क्रियायाः` (अष्टाध्यायी ३.२.१२६ ) इति हेत्वर्थे लटः शत्रादेशः । द्यामन्तरिक्षमियाय प्राप । इणो लिट्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
न्न न्स दि धू म्र न्दि शः
सा न्द्र तां धः कृ ता म्बु दः
द्या मि या स्य के नः
की र्त न्नि दि वौ सां प्रि यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.