स्पर्शमुष्णमुचितं दधच्छिखी
यद्ददाह हविरद्भुतं न तत् ।
गन्धतोऽपि हुतहव्यसम्भवा-
द्देहिनामदहदोघमंहसाम् ॥

मल्लिनाथः स्पर्शमिति ॥ उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्शं स्पर्शनेन्द्रियमात्रग्राह्यं गुणविशेषं दधद्दधानः शिखी शिखावानग्निः । व्रीह्यादित्वादिनिः । हविराज्यादिकं ददाह भस्मीचकारेति यत् तदद्भुतं न । उष्णस्पर्शसहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तेः स्वाभाविकत्वादिति भावः । कुतः। हुतहव्यसंभवाद्भुतहवनीयहविर्जन्याद्गन्धतो गन्धादपि । सांक्रामिकगुणादपीत्यर्थः । देहिनां गन्धं जिघ्रतां प्राणिनामित्यर्थः । अंहसां पापानां ओघं समूहं,अदाह्यमपीति भावः । अदहद्भस्मीकतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाश्चर्यमिति भावः । अत्रोष्णस्पर्शधारणस्य शिखिविशेषणभावेनास्य हविर्दाहहेतुकत्वात्पदार्थहेतुकं तावदेकं काव्यलिङ्गम् । उत्तरार्धे त्वंहसां भस्सीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाद्विरोधाभासे लक्ष्यस्य वाच्याभेदाध्यवसायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूतपूर्वोक्तपदार्थहेतुककाव्यलिङ्गसहकृतो हविर्दहनाद्भुतत्वहेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गमन्यैः प्राधान्येन संकीर्यते
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्प र्श मु ष्ण मु चि तं च्छि खी
द्द दा वि द्भु तं तत्
न्ध तो ऽपि हु व्य म्भ वा
द्दे हि ना दो मं साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.