तत्र मन्त्रपवितं हविः क्रता-
वश्नतो न वपुरेव केवलम् ।
वर्णसम्पदमतिस्फुटां दध-
न्नाम चोज्ज्वलमभूद्धविर्भुजः ॥

मल्लिनाथः तत्रेति ॥ तत्र क्रतौ । मन्त्रेरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । `पूङ्श्च` (अष्टाध्यायी ७.२.५१ ) इति विकल्पादिडागमः । हविराज्यादिकमश्नतो भुञ्जानस्य । अशेर्भोजनार्थाल्लटः शत्रादेशः । हवींषि भुङ्क्त इति हविर्भुजोऽग्नेः संबन्धि। अतिस्फुटामतिविकसितां वर्णसंपदं रूपसमृद्धिं दधत् केवलमेकम् । `केवलं त्वेककृत्स्नयोः` इति शाश्वतः । वपुरेवोज्वलमोजिष्ठं नाभूत् । किंतु अतिस्फुटामतिव्यक्तार्थां वर्णसंपदमक्षरसमुदायं दधत् । `वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे` इत्यमरः । नाम हविर्भुगिति नामधेयं चोज्वलं रूढमभूत् । निरन्तरं हविर्भोजनाद्वपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः । अत्र भोजनस्याश्नत इति विशेषणगत्या हेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्र न्त्र वि तं विः क्र ता
श्न तो पु रे के लम्
र्ण म्प ति स्फु टां
न्ना चो ज्ज्व भू द्ध वि र्भु जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.