Loading data... On slow networks this could take a few minutes.
100%

नाञ्ञ्जसा निगदितुं विभक्तिभि-
र्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनम-
न्मन्त्रमूहकुशलः प्रयोगिणः ॥

मल्लिनाथः &#३२; नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्मणि । अन्यथाश्रुतस्य शब्दस्यान्यथालिङ्गवचनादिभेदेन विपरिणमनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाभिर्विभक्तिभिः प्रथमादिभिः सुब्विभक्तिभिस्ति ङ्विभक्तिभिश्च । विभक्तिग्रहणं वचनोपलक्षणम् । व्यक्तिभिर्लिङ्गैश्चाञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जसा निगदितुम् । `अञ्जस उपसंख्यानम्` (वा०) इति अलुक् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अथवा अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययं तत्त्वाथ । `अञ्जसा तत्त्वतूर्णयोः` इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः । अस्मि १ न्पक्षे नैकपद्यनियमः । तं मन्त्रं कर्माङ्गदेवतारूपवाक्यं विपर्यणीनमन् विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विपरिपूर्वकाण्ण्यन्तात् णमधातोर्लुङ् । सन्वद्भावे `सन्यतः` (७|४|७९) इत्यभ्यासस्येत्वम् । `दीर्घो लघोः` (७|४|९४) इति दीर्घः । `उपसर्गादसमासेऽपि णोपदेशस्य` (८|४|१४) इति णत्वम् । अत्र नाञ्जसेति पाठविशेषणगत्या मन्त्रविपरिणमनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ना ञ्ञ्ज सा नि दि तुं वि क्ति भि
र्व्य क्ति भि श्च नि खि ला भि रा मे
त्र र्म णि वि र्य णी
न्म न्त्र मू कु लः प्र यो गि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.