नाञ्ञ्जसा निगदितुं विभक्तिभि-
र्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनम-
न्मन्त्रमूहकुशलः प्रयोगिणः ॥
नाञ्ञ्जसा निगदितुं विभक्तिभि-
र्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनम-
न्मन्त्रमूहकुशलः प्रयोगिणः ॥
र्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनम-
न्मन्त्रमूहकुशलः प्रयोगिणः ॥
मल्लिनाथः
&#३२; नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्मणि । अन्यथाश्रुतस्य शब्दस्यान्यथालिङ्गवचनादिभेदेन विपरिणमनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाभिर्विभक्तिभिः प्रथमादिभिः सुब्विभक्तिभिस्ति ङ्विभक्तिभिश्च । विभक्तिग्रहणं वचनोपलक्षणम् । व्यक्तिभिर्लिङ्गैश्चाञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जसा निगदितुम् । `अञ्जस उपसंख्यानम्` (वा०) इति अलुक् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अथवा अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययं तत्त्वाथ । `अञ्जसा तत्त्वतूर्णयोः` इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः । अस्मि १ न्पक्षे नैकपद्यनियमः । तं मन्त्रं कर्माङ्गदेवतारूपवाक्यं विपर्यणीनमन् विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विपरिपूर्वकाण्ण्यन्तात् णमधातोर्लुङ् । सन्वद्भावे `सन्यतः` (७|४|७९) इत्यभ्यासस्येत्वम् । `दीर्घो लघोः` (७|४|९४) इति दीर्घः । `उपसर्गादसमासेऽपि णोपदेशस्य` (८|४|१४) इति णत्वम् । अत्र नाञ्जसेति पाठविशेषणगत्या मन्त्रविपरिणमनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम्
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| ना | ञ्ञ्ज | सा | नि | ग | दि | तुं | वि | भ | क्ति | भि |
| र्व्य | क्ति | भि | श्च | नि | खि | ला | भि | रा | ग | मे |
| त | त्र | क | र्म | णि | वि | प | र्य | णी | न | म |
| न्म | न्त्र | मू | ह | कु | श | लः | प्र | यो | गि | णः |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.