बद्धदर्भमयकाञ्चिदामया
वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते
तैर्हवींषि जुहवांबभूविरे ॥

मल्लिनाथः बद्धेति ॥ बद्धं दर्भभयं दर्भविकारं काञ्चिदाम रशनागुणो यस्यास्तया । आग्नीध्रसंनद्धयेत्यर्थः । `आशासाना सौमनसमित्युत्तरेण गार्हपत्यमूर्ध्वर्जुमासीनां पत्नीं संनह्य तिष्ठन्तीं वाचयतीत्येके, मौञ्जन दाम्नान्यतरतः पाशेन योक्रेण च` इत्यापस्तम्बवचनात् । दामेति `डाबुभाभ्यामन्यतरस्याम्` (अष्टाध्यायी ४.१.१३ ) इति डाप्प्रत्ययः । यजमानो यष्टा । `पूङ्यजोः शानन्` (अष्टाध्यायी ३.२.१२८ ) इति यजेः शानन्प्रत्ययः । तस्य जायया पन्त्या वीक्षितानि दृष्टानि हवींष्याज्यानि । `पत्नयवेक्षते` इत्याज्यस्य पत्नयवेक्षणसंस्कारविधानादर्थप्रधानत्वात्सर्वेषामाज्यादीनां प्राणभृन्न्यायेन वीक्षितत्वव्यपदेशः। प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रेणायतने सादनम्। आदिशब्दात् परिस्तरणसमिदाधानसंमार्गादिसंस्कारसंग्रहः । तैः प्रणयनादिभिः संस्कृते अहितातिशये शुष्मण्यग्नौ । `बर्हिः शुष्मा कृष्णवर्त्मा` इत्यमरः । अत्राप्याहवनीये जुहोतीति हूयमानेऽध्वर्युः कर्ता । `जुहूपात्रव्यापृतया स्रुवाहवनीयं प्रधानम्` इति न्यायवचनात् । तैः ऋत्विग्भिः जुहवांबभूविरे । जुहोतेः कर्मणि लिट् `भीहीभृहुवाम्` (अष्टाध्यायी ३.१.३९ ) इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्यानुपादानेन विषयिणः काञ्चीगुणस्यैव तदभेदेन निर्देशानेदेऽभेदरूपातिशयोक्तेरनुप्रासेन संकरः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
द्ध र्भ का ञ्चि दा या
वी क्षि ता नि मा जा या
शु ष्म णि प्र ना दि सं स्कृ ते
तै र्ह वीं षि जु वां भू वि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.