मल्लिनाथः
संशयायेति ॥ संशयाय संदेहोत्पादनाय सरूपतां सादृश्यं दधतोः । उभयत्र रूपसाम्यादयं समासोऽयं वेति संशयं कुर्वतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रेन्द्रस्य शत्रुः शातयिता हन्तेति षष्ठीतत्पुरुषः, उतेन्द्रः शत्रुर्यस्येति बहुव्रीहिरिति सारूप्यसंशयः । तत्रानियमे दोषमाह-दूरेति । क्रिया प्रकृतं कर्म तां प्रति। तामुद्दिश्येत्यर्थः । दूरभिन्नमत्यन्तविलक्षणं फलं ययोर्दूरभिन्नफलयोस्तयोरर्थभेदात्कर्मणः फलभेदं प्रतिपादयतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रैव षष्ठीसमासस्येष्टत्वे वृत्रस्येन्द्रहन्तृत्वम्, बहुव्रीहौ तु तस्येन्द्रेण वध्यत्वमिति फलभेद इति भावः । समासयोरेवंविधयोः प्रसक्तयोः सतोरित्यर्थः । भावलक्षणे सप्तमी । शब्दशासनविदः शब्दशास्त्रज्ञाः । अन्येषामनधिकारादिति भावः । ते प्रकृता ऋत्विजः स्वरेण तत्तत्समासविहितस्वरवशेन विग्रहं वाक्येन समर्थाभिधानं व्यवससुनिश्चिक्युः । अस्मिन् स्वरेऽयं समासः, तत्रायं विग्रह इति अन्यतरपक्षावधारणं चक्रुः । यथेन्द्रशत्रुरित्यत्रैव पूर्वपदे उदात्तत्वेन बहुव्रीहिवरेण बहुव्रीहिसमासनिश्चयः । इन्द्रः शत्रुर्यस्येति विग्रहावधारणमित्यर्थः । व्यवपूर्वस्य स्यतेर्लिटि `आदेश-` (८३५९) इत्यात्वे द्विर्वचनादिकार्ये झेरुसादेशः । अत्र संशयजनकत्वफले भेदप्रतिपादकपदार्थयोर्विशेषणगत्या संदिग्धे न्यायः प्रवर्तत इति न्यायेन विग्रहस्य व्यवसायहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| सं | श | या | य | द | ध | तोः | स | रू | प | ता |
| दू | र | भि | न्न | फ | ल | योः | क्रि | यां | प्र | ति |
| श | ब्द | शा | स | न | वि | दः | स | मा | स | यो |
| र्वि | ग्र | हं | व्य | व | स | सुः | स्व | रे | ण | ते |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.