सप्तमभेदकरकल्पितस्वरं
साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः
पुण्यमृग्यजुषमध्यगीषत ॥

मल्लिनाथः सप्तेति ॥ तत्र क्रतौ । सामानि वेत्तीति सामवित् उद्गाता सप्तभेदं सप्तप्रकारं यथा तथा करेण हस्तेन कल्पिताः संपादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिर्व्यञ्जितसप्तस्वरमित्यर्थः । `निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त` इत्यमरः । यद्वा स्वराः कष्टादयः । कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः । साम बृहद्रथन्तरादिकमसङ्गमस्खलितमुज्जगावुदगायत् । किंच सूनृतगिरः प्रियसत्यवाचः । `प्रियं सत्यं च सूनृतम्` इत्यमरः । सूरयो विद्वांसो होत्राध्वर्वा्यदयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तत् ऋग्यजुषम् `अग्निमीळे` `इषे त्वा` इत्यादिकम् । द्वन्द्वैकवद्भावः `अचतुर` (अष्टाध्यायी ५.४.७७ ) इत्यादिना द्वन्द्वे समासान्तनिपातः । अध्यगीषत । इङो लुडि `विभाषालुङ्लुडोः` (अष्टाध्यायी २.४.५० ) इति गाङादेशपक्षे `गाङ् कुटादि` (अष्टाध्यायी १.२.१ ) इति सिचः कित्त्वे `घुमास्था` (६४६६) इत्यादिना ईत्वम् । अत्र सामसामेत्यादौ वृत्त्यनुप्रासभेदो द्रष्टव्यः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११ १२
प्त भे ल्पि स्व रं
सा सा वि ङ्ग मु ज्ज गौ
त्र सू नृ गि श्च सू यः
पु ण्य मृ ग्य जु ध्य गी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.