Loading data... On slow networks this could take a few minutes.
100%

तं जगाद गिरमुद्गिरन्निव
स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादध-
द्वाग्विदां वरमकमद्वदो नृपः ॥

मल्लिनाथः तमिति ॥ वदतीति वदः । पचाद्यच् । कुत्सितस्य वदः कद्वदः गर्ह्यवाक् । गर्ह्यवादी तु कद्वदः` इत्यमरः । `रथवदयोश्च` (अष्टाध्यायी ६.३.१०२ ) इति कोः कदादेशः । स न भवतीत्यकद्वदः साधुवादी नृपो युधिष्ठिरो यज्ञकर्मणि यज्ञानुष्ठाने मनः समादधत्सम्यगादधत् । तदेव हृदि निधायेत्यर्थः । आहितविकासया कृतप्रसादया दृशा दृष्ट्या स्नेहमुद्गिरन्नुद्वमन्निवेत्युत्प्रेक्षा । दृष्टिविकासात्प्रकटितस्नेहः सन्नित्यर्थः । वाचो विन्दन्ति वक्तुं विवेकं च जानन्तीति वाग्विदो वाक्यकोविदाः । `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । तेषां वरं श्रेष्ठं तं हरिं गिरं जगाद । ब्रूतेरर्थग्रहणात् `दुह्याच्-` इत्यादिना गदेर्द्विकर्मकत्वम् । अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः संसृष्टिः । अस्मिन्सर्गे रथोद्धता वृत्तम् । `रानराविह रथोद्धता लगौ` इति लक्षणात्
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११ १२
तं गा गि मु द्गि न्नि
स्ने मा हि वि का या दृ शा
ज्ञ र्म णि नः मा
द्वा ग्वि दां द्व दो नृ पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.