Loading data... On slow networks this could take a few minutes.
100%

आननेन शशिनः कलां दध-
द्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैरभू-
दष्टमूर्तिधरमूर्तिरष्टमी ॥

मल्लिनाथः आननेनेत्यादि ॥ आननेन शशिनः कलामिव कलां कान्तिं दधत् । निदर्शनालंकारः । शशिमुख इत्यर्थः । अन्यत्र शशिखण्डधरेत्यर्थः । दर्शनेन ज्ञानेन क्षयितौ नाशितौ कामविग्रहौ कामक्रोधौ येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः । विमलैर्जलैः आप्लुतः स्नातः । नद्यां स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्ता । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । `तस्य पूरणे डट्` (अष्टाध्यायी ५.२.४८ ) इति डट् प्रत्ययः । `नान्तादसंख्यादेर्मट्` (अष्टाध्यायी ५.२.४९ ) इति मडागमः `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । अष्टानां मूर्तीनां&#३२; समाहारोऽष्टमूर्तिः । तद्धितार्थ-` (अष्टाध्यायी २.१.५१ ) इत्यादिना समाहारे द्विगुरेकवचनं नपुंसकं च । तस्य धरो धारयिताऽष्टमूर्तिधरः शिवः तस्याष्टमी मूर्तिरभूत् । सोमदीक्षितोऽभूदित्यर्थः । तस्याप्यागमे शिवमूर्तित्वप्रसिद्धः । अत्र प्रकृताप्रकृतयोर्नृपशिवयोः शिवशब्दमात्रसाधर्म्याच्छ्लेषालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
ने शि नः लां
द्द र्श क्ष यि का वि ग्र हः
प्लु तः वि लै र्ज लै भू
ष्ट मू र्ति मू र्ति ष्ट मी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.