इत्युदीरितगिरं नृपस्त्वयि
श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवा-
नुद्वहन्मुदमुदस्थित क्रतौ ॥

मल्लिनाथः इतीति ॥ इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरिं हरिं नृपो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थितवति सति । त्वयि क्षेमंकरे सतीत्यर्थः । मम सर्वसंपत् स्थिरेत्युक्तवान् । मुदमुद्वहन् सहायसंपत्त्या संतुष्यन् सन् । क्रतावुदस्थित । क्रतुं कर्तुमुद्युक्तवानित्यर्थः । तिष्ठतेर्लुङि `उदोऽनूर्ध्वकर्मणि` (॥३।२४) इत्यादिनात्मनेपदं `स्थाध्वोरिच` (अष्टाध्यायी १.२.१७ ) इति सिचः कित्वादिकारः । `हस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सकारलोपः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्यु दी रि गि रं नृ स्त्व यि
श्रे सि स्थि ति स्थि रा
र्व म्प दि ति शौ रि मु क्त वा
नु द्व न्मु मु स्थि क्र तौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.