तस्य सांख्यपुरुषेण तुल्यतां
बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभव-
द्वृत्तिभाजि करणे यथर्त्विजि ॥
तस्य सांख्यपुरुषेण तुल्यतां
बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभव-
द्वृत्तिभाजि करणे यथर्त्विजि ॥
बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभव-
द्वृत्तिभाजि करणे यथर्त्विजि ॥
मल्लिनाथः
तस्येति ॥ क्रियाः कर्माणि होमादीनि, अन्यत्र पुण्यपापकर्माणि । स्वयमकुर्वतोऽननुतिष्ठतः, अन्यत्र उदासीनस्य । अत एव सांख्यपुरुषेण सांख्यशास्त्रोक्तेनात्मना तुल्यतां बिभ्रतस्तस्य राज्ञः करणेऽन्तःकरणे यथा । बुद्धाविवेत्यर्थः । ऋतौ यजतीति ऋत्विग्याजकः । `ऋत्विजो याजकाश्च ते` इत्यमरः । `ऋत्विग्दधृग् (अष्टाध्यायी ३.२.५९ ) इति निपातः । तस्मिन् वृत्तिभाजि । होमादिव्यापारं कुर्वतीत्यर्थः । अन्यत्र पुण्यपापकारिणि सति तदुपलम्भतः तस्या ऋत्विग्वृत्तेरुपलम्भान्ममेदमित्यनुसंधानादेव कर्तृता क्रियानुष्ठातृत्वमभवत्। तथैव विधिसामर्थ्यादिति भावः । अत एवाह भगवाञ्जैमिनिः`अन्यो वा स्यात्परिक्रिया स्नानात्सत्यप्यात्मनेपदे` इति, अन्यत्र तदुपलम्भतस्तस्या बुद्धिवृत्तेरुपलम्भात्साक्षित्वेनानुसंधानादेव कर्तृत्वमभवत् । स्वयं क्रियाभोगरहितोऽप्यात्मा बुद्धेः संनिधानाद्रक्तस्फटिकवत्तथा भवतीत्यर्थः । उपमालंकारः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| त | स्य | सां | ख्य | पु | रु | षे | ण | तु | ल्य | तां |
| बि | भ्र | तः | स्व | य | म | कु | र्व | तः | क्रि | याः |
| क | र्तृ | ता | त | दु | प | ल | म्भ | तो | ऽभ | व |
| द्वृ | त्ति | भा | जि | क | र | णे | य | थ | र्त्वि | जि |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.