Loading data... On slow networks this could take a few minutes.
100%

तत्सुराज्ञि भवति स्थिते पुनः
कः क्रतुं यजतु राजलक्षणम् ।
उद्धृतौ भवति कस्य वा भुवः
श्रीवराहमपहाय योग्यता ॥

मल्लिनाथः तदिति ॥ तत्तस्मादुक्तरीत्या । तवैवाधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारक्षणादिगुणयोगाच्छुद्धक्षत्रिये । `न पूजनात्` (अष्टाध्यायी ५.४.६९ ) इति समासान्तप्रतिषेधः । भवति त्वयि पुरः स्थिते सति । कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं क्रतुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । `राजा राजसूयेन यजेत` इति राजाधिकारताश्रवणाद्राजा त्वमेवेति भावः । संभावनायां लोट् । अत्र दृष्टान्तमाह-भुव उद्धृतौ भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्यं भवति । न कस्यापीत्यर्थः । योगाय प्रभवतीति योग्यः । `योगाद्यच्च` (अष्टाध्यायी ५.१.१०२ ) इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
त्सु रा ज्ञि ति स्थि ते पु नः
कः क्र तुं तु रा क्ष णम्
द्धृ तौ ति स्य वा भु वः
श्री रा हा यो ग्य ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.