Loading data... On slow networks this could take a few minutes.
100%

सादिताखिलनृपं महन्महः
सम्प्रति स्वनयसंपदैव ते ।
किं परस्य स गुणः समश्नुते
पथ्यवृत्तिरपि यद्यरोगिताम् ॥

मल्लिनाथः सादितेति ॥ संप्रति ते तव महन्महस्तेजः स्वनयसंपदैव निजनीतिमहिनैव सादिताखिलनृपं विजितसमस्तराजकं न तु मदनुभावादिति भावः । तथा हि पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोऽप्यरोगितामारोग्यं समश्र्नुते यदि प्रामोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गता । परस्य भिषजः स गुणः किं नेत्यर्थः । अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वाद्भिषजो गुणोऽस्तु, हितमेध्याशिनो न तथेत्यर्थः । स्वयमसमर्थः । पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्तालंकारः सुगमः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सा दि ता खि नृ पं न्म हः
म्प्र ति स्व सं दै ते
किं स्य गु णः श्नु ते
थ्य वृ त्ति पि द्य रो गि ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.