शासनेऽपि गुरुणि व्यवस्थितं
कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जया-
दन्य एव इति मां च मावगाः ॥
शासनेऽपि गुरुणि व्यवस्थितं
कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जया-
दन्य एव इति मां च मावगाः ॥
कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जया-
दन्य एव इति मां च मावगाः ॥
मल्लिनाथः
शासन इति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम् । त्वदाज्ञाकरमित्यर्थः । मां कृत्यवस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुङ्क्ष्व प्रेषय । अनुचितमेतन्नियन्तरीति संकोचं वारयन्नाह-त्वदिति । त्वत्प्रयोजनमेव धनं यस्य तम् ।त्वदर्थैकनिष्ठमित्यर्थः । मां धनानि जयतीति धनंजयोऽर्जुनः । `संज्ञायां भृृतृृवृजिधारिसहितपिदमः` (अष्टाध्यायी ३.२.४६ ) इति खश्प्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण&#३२; इति मां मावगाः मावेहि च । नियोगसमुच्चयार्थश्चकारः । अवपूर्वादिणो `माङि लुइ`, (अष्टाध्यायी ३.३.१७५ ) `इणो गा लुङि` (अष्टाध्यायी २.४.४५ ) इति गादेशः `न माङ्योगे` (अष्टाध्यायी ६.४.७४ ) इत्यदप्रतिषेधः । उभयोस्तत्कार्यनिबन्धनान्नारायणात्मत्वाच्च नावयोर्मेदप्रतिपत्तिः कार्येत्यर्थः । तथा च तद्वदेव कर्मसु नियोगेऽप्यसंकोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः। स च कृष्णयोर्भेदाभेदरूपातिशयोक्तिमूल इत्यनयोरङ्गाङ्गिभावेन संकरः
छन्दः
रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| शा | स | ने | ऽपि | गु | रु | णि | व्य | व | स्थि | तं |
| कृ | त्य | व | स्तु | षु | नि | यु | ङ्क्ष्व | का | म | तः |
| त्व | त्प्र | यो | ज | न | घ | नं | ध | न | ञ्ज | या |
| द | न्य | ए | व | इ | ति | मां | च | मा | व | गाः |
| र | न | र | ल | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.